Mantra 2.6.1
ContentsText
अस॑न्ने॒व स॑ भवति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् ।
अस्ति ब्रह्मेति॑ चेद्वे॒द । सन्तमेनं ततो वि॑दुरि॒ति ।
तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ।
अथातो॑ऽनुप्र॒श्नाः । उ॒तावि॒द्वान॒मुं लो॒कं प्रेत्य॑ ।
कश्च॒न ग॑च्छ॒ती३
आहो॑ वि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्चि॒त्सम॑श्नु॒ता३ उ॒ ।
सो॑ऽकामयत । ब॒हुस्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत ।
स तप॑स्त॒प्त्वा । इ॒दꣳसर्व॑मसृजत । यदि॒दं किञ्च॑ ।
तत्सृ॒ष्ट्वा । तदे॒वानु॒प्रावि॑शत् । तद॑नु प्र॒विश्य॑ ।
सच्च॒ त्यच्चा॑भवत् ।
नि॒रुक्तं॒ चानि॑रुक्तं च । नि॒लय॑नं॒ चानि॑लयनं च ।
वि॒ज्ञानं॒ चावि॑ज्ञानं च । सत्यं चानृतं च स॑त्यम॒भवत् ।
यदि॑दं कि॒ञ्च । तत्सत्यमि॑त्याच॒क्षते ।
तदप्येष श्लो॑को भ॒वति ॥ १॥
Transliteration
asa̭nne̱va sa̭ bhavati | asa̱dbrahmeti̱ veda̱ cet |
asti brahmeti̭ cedve̱da | santamenaṃ tato vi̭duri̱ti |
tasyaiṣa eva śārī̭ra ā̱tmā | ya̭ḥ pūrva̱sya |
athāto̭'nupra̱śnāḥ | u̱tāvi̱dvāna̱muṃ lo̱kaṃ pretya̭ |
kaśca̱na ga̭ccha̱tī3
āho̭ vi̱dvāna̱muṃ lo̱kaṃ pretya̭ | kaści̱tsama̭śnu̱tā3 u̱ |
so̭'kāmayata | ba̱husyā̱ṃ prajā̭ye̱yeti̭ | sa tapo̭'tapyata |
sa tapa̭sta̱ptvā | i̱dam̐sarva̭masṛjata | yadi̱daṃ kiñca̭ |
tatsṛ̱ṣṭvā | tade̱vānu̱prāvi̭śat | tada̭nu pra̱viśya̭ |
sacca̱ tyaccā̭bhavat |
ni̱rukta̱ṃ cāni̭ruktaṃ ca | ni̱laya̭na̱ṃ cāni̭layanaṃ ca |
vi̱jñāna̱ṃ cāvi̭jñānaṃ ca | satyaṃ cānṛtaṃ ca sa̭tyama̱bhavat |
yadi̭daṃ ki̱ñca | tatsatyami̭tyāca̱kṣate |
tadapyeṣa ślo̭ko bha̱vati || 1||