Passage 1
ContentsText
ॐ त्रिशिखी ब्राह्मण आदित्यलोकं जगाम तं गत्वोवाच ।
भगवन् किं देहः किं प्राणः किं कारण किमात्मा स
होवाच सर्वमिदं शिव एव विजानीहि । किंतु नित्यः शुद्धो
निरञ्जनो विभुरद्वयः शिव एकः स्वेन भासेदं सर्वं
दृष्ट्वा तप्तायःपिण्डवदेकं भिन्नवदवभासते ।
तद्भासकं किमिति चेदुच्यते । सच्छब्दवाच्य-
मविद्याशबलं ब्रह्म । ब्रह्मणोऽव्यक्तम् । अव्यक्तान्महत् ।
महतोऽहङ्कारः । अहङ्कारात्पञ्चतन्मात्राणि ।
पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि ।
पञ्चमहाभूतेभ्योऽखिलं जगत् ॥
तदखिलं किमिति । भूतविकारविभागादिरिति । एकस्मिन्पिण्डे
कथं भूतविकारविभाग इति । तत्तत्कार्यकारणभेदरूपे-
णांशतत्त्ववाचकवाच्यस्थानभेदविषयदेवताकोश-
भेदविभागा भवन्ति । अथाकाशोऽन्तःकरणमनोबुद्धि-
चिताहङ्कारः । वायुः समानोदानव्यानापानप्राणाः ।
वह्निः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि । आपः शब्दस्पर्श-
रूपरसगन्धाः । पृथिवी वाक्पाणिपादपायूपस्थाः ।
ज्ञानसङ्कल्पनिश्चयानुसन्धानाभिमाना आकाश-
कार्यान्तःकरणविषयाः । समीकरणोन्ननयनग्रहण-
श्रवणोच्छ्वासा वायुकार्यप्राणादिविषयाः ।
शब्दस्पर्शरूपरसगन्धा अग्निकार्यज्ञानेन्द्रिय-
विषया अबाश्रिताः । वचनादानगमनविसर्गानन्दाः
पृथिवीकार्यकर्मेन्द्रियविषयाः । कर्मज्ञानेन्द्रिय-
विषयेषु प्राणतन्मात्रविषया अन्तर्भूताः ।
मनोबुद्ध्योश्चित्ताहङ्कारौ चान्तर्भूतौ ।
अवकाशविधूतदर्शनपिण्डीईकरणधारणाः सूक्ष्मतमा
जैवतन्मात्रविषयाः । एवं द्वादशाङ्गानि
आध्यात्मिकान्याधिभौतिकान्याधिदैविकानि । अत्र
निशाकरचतुर्मुखदिग्वातार्कवरुणाश्व्यग्नीन्द्रोपेन्द्र-
प्रजापतियमा इत्यक्षाधिदेवतारूपैर्द्वादश-
नाड्यन्तःप्रवृत्ताः प्राणा एवाङ्गानि अङ्गज्ञानं
तदेव ज्ञातेति । अथ व्योमानिलानलजलान्नानां
पञ्चीकरणमिति । ज्ञातृत्वं समानयोगेन श्रोत्रद्वारा
शब्दगुणो वागधिष्ठित आकाशे तिष्ठति आकाशस्तिष्ठति ।
मनोव्यानयोगेन त्वग्द्वारा स्पर्शगुणः पाण्यधिष्ठितो
वायौ तिष्ठति वायुस्तिष्ठति । बुद्धिरुदानयोगेन
चक्षुर्द्वारा रूपगुणः पादाधिष्ठितोऽग्नौ
तिष्ठत्यग्निस्तिष्ठति । चित्तमपानयोगेन जिह्वाद्वारा
रसगुण उपस्थाधिष्ठितोऽप्सु तिष्ठत्यापस्तिष्ठन्ति ।
अहङ्कारः प्राणयोगेन घ्राणद्वारा गन्धगुणो
गुदाधिष्ठितः पृथिव्यां तिष्ठति पृथिवी तिष्ठति
य एवं वेद । अत्रैते श्लोका भवन्ति ।
Transliteration
oṃ triśikhī brāhmaṇa ādityalokaṃ jagāma taṃ gatvovāca |
bhagavan kiṃ dehaḥ kiṃ prāṇaḥ kiṃ kāraṇaṃ kimātmā sa
hovāca sarvamidaṃ śiva eva vijānīhi | kiṃtu nityaḥ śuddho
nirañjano vibhuradvayaḥ śiva ekaḥ svena bhāsedaṃ sarvaṃ
dṛṣṭvā taptāyaḥpiṇḍavadekaṃ bhinnavadavabhāsate |
tadbhāsakaṃ kimiti ceducyate | sacchabdavācyamavidyāśabalaṃ brahma | brahmaṇo'vyaktam | avyaktānmahat |
mahato'haṅkāraḥ | ahaṅkārātpañcatanmātrāṇi |
pañcatanmātrebhyaḥ pañcamahābhūtāni |
pañcamahābhūtebhyo'khilaṃ jagat ||
tadakhilaṃ kimiti | bhūtavikāravibhāgādiriti | ekasminpiṇḍe
kathaṃ bhūtavikāravibhāga iti | tattatkāryakāraṇabhedarūpeṇāṃśatattvavācakavācyasthānabhedaviṣayadevatākośabhedavibhāgā bhavanti | athākāśo'ntaḥkaraṇamanobuddhicittāhaṅkāraḥ | vāyuḥ samānodānavyānāpānaprāṇāḥ |
vahniḥ śrotratvakcakṣurjihvāghrāṇāni | āpaḥ śabdasparśarūparasagandhāḥ | pṛthivī vākpāṇipādapāyūpasthāḥ |
jñānasaṅkalpaniścayānusandhānābhimānā ākāśakāryāntaḥkaraṇaviṣayāḥ | samīkaraṇonnanayanagrahaṇaśravaṇocchvāsā vāyukāryaprāṇādiviṣayāḥ |
śabdasparśarūparasagandhā agnikāryajñānendriyaviṣayā abāśritāḥ | vacanādānagamanavisargānandāḥ
pṛthivīkāryakarmendriyaviṣayāḥ | karmajñānendriyaviṣayeṣu prāṇatanmātraviṣayā antarbhūtāḥ |
manobuddhyościttāhaṅkārau cāntarbhūtau |
avakāśavidhūtadarśanapiṇḍīkaraṇadhāraṇāḥ sūkṣmatamā
jaivatanmātraviṣayāḥ | evaṃ dvādaśāṅgāni
ādhyātmikānyādhibhautikānyādhidaivikāni | atra
niśākaracaturmukhadigvātārkavaruṇāśvyagnīndropendraprajāpatiyamā ityakṣādhidevatārūpairdvādaśanāḍyantaḥpravṛttāḥ prāṇā evāṅgāni aṅgajñānaṃ
tadeva jñāteti | atha vyomānilānalajalānnānāṃ
pañcīkaraṇamiti | jñātṛtvaṃ samānayogena śrotradvārā