Passage 6.1
ContentsText
अथ नारदः पितामहमुवाच ।
भगवन् तदभ्यासवशात् भ्रमकीटन्यायवत्तदभ्यासः कथमिति ।
तमाह पितामहः ।
सत्यवाग्ज्ञानवैराग्याभ्यां विशिष्टदेहावशिष्टो
वसेत् । ज्ञानं शरीरं वैराग्यं जीवनं विद्धि
शान्तिदान्ती नेत्रे मनोमुखं बुद्धिः कला
पञ्चविंशतितत्त्वान्यवयव अवस्था
पञ्चमहाभूतानि कर्म भक्तिज्ञानवैराग्यं शाखा
जाग्रत्स्वप्नसुषुप्तितुरीयाश्चतुर्दशकरणानि
पङ्कस्तम्भाकाराणीति । एवमपि नावमतिपङ्कं कर्णधार
इव यन्तेव गजं स्वबुद्ध्या वशीकृत्य स्वव्यतिरिक्तं सर्वं
कृतकं नश्वरमिति मत्वा विरक्तः पुरुषः सर्वदा
ब्रह्माहमिति व्यवहरेन्नान्यत्किञ्चिद्वेदितव्यं स्वव्यतिरेकेण ।
जीवन्मुक्तो वसेत्कृतकृत्यो भवति । न नाहं ब्रह्मेति
व्यवहरेत्किन्तु ब्रह्माहमस्मीत्यजस्रं जाग्रत्स्वप्नसुषुप्तिषु ।
तुरीयावस्थां प्राप्य तुरीयातीतत्वं व्रजेद्दिवा जाग्रन्नक्तं
स्वप्नं सुषुप्तमर्धरात्रं गतमित्येकावस्थायां
चतस्रोऽवस्थास्त्वेकैककरणाधीनानां चतुर्दशकरणानां व्यापारश्चक्षुरादीनाम् ।
चक्षुषो रूपग्रहणं श्रोत्रयोः शब्दग्रहणं
जिह्वाया रसास्वादनं घ्राणस्य गन्धग्रहणं
वचसो वाग्व्यापारः पाणेरादानं पादयोः संचारः
पायोरुत्सर्ग उपस्थस्यानन्दग्रहणं त्वचः स्पर्शग्रहणम् ।
तदधीना च विषयग्रहणबुद्धिः बुद्ध्या बुद्ध्यति
चित्तेन चेतयत्यहङ्कारेणाहङ्करोति । विसृज्य जीव
एतान्देहाभिमानेन जीवो भवति । गृहाभिमानेन गृहस्थ
इव शरीरे जीवः संचरति । प्राग्दले पुण्यावृत्तिराग्नेयां
निद्रालस्यौ दक्षिणायां क्रौर्यबुद्धिर्नैरृत्यां पापबुद्धिः
पश्चिमे क्रीडारतिर्वायव्यां गमने बुद्धिरुत्तरे शान्तिरीशान्ये
ज्ञानं कर्णिकायां वैराग्यं केसरेष्वात्मचिन्ता इत्येवं
वक्त्रं ज्ञात्वा जीवदवस्थां प्रथमं जाग्रद्द्वितीयं
स्वप्नं तृतीयं सुषुप्तं चतुर्थं तुरीयं चतुर्भिर्विरहितं
तुरीयातीतम् । विश्वतैजसप्राज्ञतटस्थभेदैरेक एव एको देवः
साक्षी निर्गुणश्च तद्ब्रह्माहमिति व्याहरेत् ।
नो चेज्जाग्रदवस्थायां जाग्रदादिचतस्रोऽवस्थाः स्वप्ने
स्वप्नादिचतस्रोऽवस्थाः सुषुप्ते सुषुप्त्यादिचतस्रोऽवस्थाः
तुरीये तुरीयादिचतस्रोऽवस्थाः नत्वेवं तुरीयातीतस्य निर्गुणस्य ।
स्थूलसूक्ष्मकारणरूपैर्विश्वतैजसप्राज्ञेश्वरैः
सर्वावस्थासु साक्षी त्वेक एवावतिष्ठते । उत तटस्थो द्रष्टा
तटस्थो न द्रष्टा द्रष्टृत्वान्न द्रष्टैव कर्तृत्वभोक्तृत्व
अहङ्कारादिभिः स्पृष्टो जीवः जीवेतरो न स्पृष्टः । जीवोऽपि
न स्पृष्ट इति चेन्न । जीवाभिमानेन क्षेत्राभिमानः ।
शरीराभिमानेन जीवत्वम् । जीवत्वं घटाकाशमहाकाशव-
द्व्यवधानेऽस्ति । व्यवधानवशादेव हंसः सोऽहमिति
मन्त्रेणोच्छ्वासनिःश्वासव्यपदेशेनानुसन्धानं करोति ।
एवं विज्ञाय शरीराभिमानं त्यजेन्न शरीराभिमानी भवति ।
स एव ब्रह्मेत्युच्यते।
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ।
पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ॥ १॥
Transliteration
atha nāradaḥ pitāmahamuvāca |
bhagavan tadabhyāsavaśāt bhramakīṭanyāyavattadabhyāsaḥ kathamiti |
tamāha pitāmahaḥ |
satyavāgjñānavairāgyābhyāṃ viśiṣṭadehāvaśiṣṭo
vaset | jñānaṃ śarīraṃ vairāgyaṃ jīvanaṃ viddhi
śāntidāntī netre manomukhaṃ buddhiḥ kalā
pañcaviṃśatitattvānyavayava avasthā
pañcamahābhūtāni karma bhaktijñānavairāgyaṃ śākhā
jāgratsvapnasuṣuptiturīyāścaturdaśakaraṇāni
paṅkastambhākārāṇīti | evamapi nāvamatipaṅkaṃ karṇadhāra
iva yanteva gajaṃ svabuddhyā vaśīkṛtya svavyatiriktaṃ sarvaṃ
kṛtakaṃ naśvaramiti matvā viraktaḥ puruṣaḥ sarvadā
brahmāhamiti vyavaharennānyatkiñcidveditavyaṃ svavyatirekeṇa |
jīvanmukto vasetkṛtakṛtyo bhavati | na nāhaṃ brahmeti
vyavaharetkintu brahmāhamasmītyajasraṃ jāgratsvapnasuṣuptiṣu |
turīyāvasthāṃ prāpya turīyātītatvaṃ vrajeddivā jāgrannaktaṃ
svapnaṃ suṣuptamardharātraṃ gatamityekāvasthāyāṃ
catasro'vasthāstvekaikakaraṇādhīnānāṃ caturdaśakaraṇānāṃ vyāpāraścakṣurādīnām |
cakṣuṣo rūpagrahaṇaṃ śrotrayoḥ śabdagrahaṇaṃ
jihvāyā rasāsvādanaṃ ghrāṇasya gandhagrahaṇaṃ
vacaso vāgvyāpāraḥ pāṇerādānaṃ pādayoḥ saṃcāraḥ
pāyorutsarga upasthasyānandagrahaṇaṃ tvacaḥ sparśagrahaṇam |
tadadhīnā ca viṣayagrahaṇabuddhiḥ buddhyā buddhyati
cittena cetayatyahaṅkāreṇāhaṅkaroti | visṛjya jīva
etāndehābhimānena jīvo bhavati | gṛhābhimānena gṛhastha